Swami Samarpananda GIta

Date 18 May 2022

গীতা | Gita 64 (Bengali) | Kshetra, Kshetrajan – I and God | XIII.2- 6| Swami Samarpanananda
12,250 viewsStreamed live on Jun 27, 2021
https://www.youtube.com/watch?v=TG_Jqp8WEz0

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।7.4।।

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।

जीवभूतां महाबाहो ययेदं धार्यते जगत्।।7.5।।

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च।

एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव।।13.1।।

श्री भगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.2।।

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.3।।

तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्।

स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु।।13.4।।

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्िचतैः।।13.5।।

अर्जुन उवाच

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च।

एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव।।13.1।।
 Hindi Translation By Swami Tejomayananda

।।13.1।। अर्जुन ने कहा — हे केशव ! मैं, प्रकृति और पुरुष, क्षेत्र और क्षेत्रज्ञ तथा ज्ञान और ज्ञेय को जानना चाहता हूँ।।
 Hindi Translation By Swami Ramsukhdas

।।13.1।। No TranslationSanskrit Commentary By Sri Shankaracharya

।।13.1।। — No CommentaryEnglish Translation By Swami Gambirananda

13.1 Swami Gambhirananda has not translated this sloka. Many editions of the Bhagavadgita do not contain this sloka, including the commentary by Sankaracharya. If this sloka is included, the total number of slokas in the Bhagavadgita is 701.

श्री भगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.2।।

Hindi Translation By Swami Tejomayananda

।।13.2।। श्रीभगवान् ने कहा — हे कौन्तेय ! यह शरीर क्षेत्र कहा जाता है और इसको जो जानता है, उसे तत्त्वज्ञ जन, क्षेत्रज्ञ कहते हैं।।
 Hindi Translation By Swami Ramsukhdas

।।13.2।।श्रीभगवान् बोले — हे कुन्तीपुत्र अर्जुन ! ‘यह’ — रूपसे कहे जानेवाले शरीरको ‘क्षेत्र’ कहते हैं और इस क्षेत्रको जो जानता है, उसको ज्ञानीलोग ‘क्षेत्रज्ञ’ नामसे कहते हैं।Sanskrit Commentary By Sri Shankaracharya

।।13.2।। –,इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरीरम् इति। हे कौन्तेय? क्षतत्राणात्? क्षयात्? क्षरणात्? क्षेत्रवद्वा अस्मिन् कर्मफलनिष्पत्तेः क्षेत्रम् इति — इतिशब्दः एवंशब्दपदार्थकः — क्षेत्रम् इत्येवम् अभिधीयते कथ्यते। एतत् शरीरं क्षेत्रं यः वेत्ति विजानाति? आपादतलमस्तकं ज्ञानेन विषयीकरोति? स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः? तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इति — इतिशब्दः एवंशब्दपदार्थकः एव पूर्ववत् — क्षेत्रज्ञः इत्येवम् आहुः। के तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः।।एवं क्षेत्रक्षेत्रज्ञौ उक्तौ। किम् एतावन्मात्रेण ज्ञानेन ज्ञातव्यौ इति न इति उच्यते –,English Translation By Swami Gambirananda

13.2 The Blessed Lord said O son of Kunti, this body is referred to as the ‘field’. Those who are versed in this call him who is conscious of it as the ‘knower of the field’.

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.3।।
 Hindi Translation By Swami Tejomayananda

।।13.3।। हे भारत ! तुम समस्त क्षेत्रों में क्षेत्रज्ञ मुझे ही जानो। क्षेत्र और क्षेत्रज्ञ का जो ज्ञान है, वही (वास्तव में) ज्ञान है , ऐसा मेरा मत है।।
 Hindi Translation By Swami Ramsukhdas

।।13.3।।हे भरतवंशोद्भव अर्जुन ! तू सम्पूर्ण क्षेत्रोंमें क्षेत्रज्ञ मेरेको ही समझ; और क्षेत्र-क्षेत्रज्ञका जो ज्ञान है, वही मेरे मतमें ज्ञान है।Sanskrit Commentary By Sri Shankaracharya

।।13.3।। –,क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि। सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः? तं निरस्तसर्वोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धि इति अभिप्रायः। हे भारत? यस्मात् क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति? तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यत् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते? तत् ज्ञानं सम्यग्ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः।।ननु सर्वक्षेत्रेषु एक एव ईश्वरः? न अन्यः तद्व्यतिरिक्तः भोक्ता विद्यते चेत्? ततः ईश्वरस्य संसारित्वं प्राप्तम् ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसाराभावप्रसङ्गः। तच्च उभयमनिष्टम्? बन्धमोक्षतद्धेतुशास्त्रानर्थक्यप्रसङ्गात्? प्रत्यक्षादिप्रमाणविरोधाच्च। प्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसारः उपलभ्यते जगद्वैचित्र्योपलब्धेश्च धर्माधर्मनिमित्तः संसारः अनुमीयते। सर्वमेतत् अनुपपन्नमात्मेश्वरैकत्वे।।न ज्ञानाज्ञानयोः अन्यत्वेनोपपत्तेः — दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता (क0 उ0 1।2।4)। तथा च तयोः विद्याविद्याविषययोः फलभेदोऽपि विरुद्धः निर्दिष्टः — श्रेयश्च प्रेयश्च इति विद्याविषयः श्रेयः? प्रेयस्तु अविद्याकार्यम् इति। तथा च व्यासः — द्वाविमावथ पन्थानौ (महा0 शान्ति0 241।6) इत्यादि? इमौ द्वावेव पन्थानौ इत्यादि च। इह च द्वे निष्ठे उक्ते। अविद्या च सह कार्येण हातव्या इति श्रुतिस्मृतिन्यायेभ्यः अवगम्यते। श्रुतयः तावत् — इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः (के0 उ0 2।5) तमेवं विद्वानमृत इह भवति (नृ0 पू0 उ0 6)। नान्यः पन्था विद्यतेऽयनाय (श्वे0 उ0 3।8) विद्वान्न बिभेति कुतश्चन (तै0 उ0 2।4)। अविदुषस्तु — अथ तस्य भयं भवति (तै0 उ0 2।7)? अविद्यायामन्तरे वर्तमानाः (क0 उ0 1।2।5) ब्रह्म वेद ब्रह्मैव भवति (मु0 उ0 3।2।9) अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् आत्मवित् यः स इदं सर्वं भवति (बृह0 उ0 1।4।10) यदा चर्मवत् (श्वे0 उ0 6।20) इत्याद्याः सहस्रशः। स्मृतयश्च — अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः (गीता 5।15) इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः (गीता 5।19) समं पश्यन् हि सर्वत्र (गीता 13।28) इत्याद्याः। न्यायतश्च — सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य तथाविशिष्टम् (महा0 शा0 201।16)। तथा च — देहादिषु आत्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तः धर्माधर्मानुष्ठानकृत् जायते म्रियते च इति अवगम्यते देहादिव्यतिरिक्तात्मदर्शिनः रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमात् मुच्यन्ते इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः। तत्र एवं सति? क्षेत्रज्ञस्य ईश्वरस्यैव सतः अविद्याकृतोपाधिभेदतः संसारित्वमिव भवति? यथा देहाद्यात्मत्वमात्मनः। सर्वजन्तूनां हि प्रसिद्धः देहादिषु अनात्मसु आत्मभावः निश्चितः अविद्याकृतः? यथा स्थाणौ पुरुषनिश्चयः? न च एतावता पुरुषधर्मः स्थाणोः भवति? स्थाणुधर्मो वा पुरुषस्य? तथा न चैतन्यधर्मो देहस्य? देहधर्मो वा चेतनस्य सुखदुःखमोहात्मकत्वादिः आत्मनः न युक्तः अविद्याकृतत्वाविशेषात्? जरामृत्युवत्।।न? अतुल्यत्वात् इति चेत् — स्थाणुपुरुषौ ज्ञेयावेव सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यया देहात्मनोस्तु ज्ञेयज्ञात्रोरेव इतरेतराध्यासः? इति न समः दृष्टान्तः। अतः देहधर्मः ज्ञेयोऽपि ज्ञातुरात्मनः भवतीति चेत्? न अचैतन्यादिप्रसङ्गात्। यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयः ज्ञातुः भवन्ति? तर्हि? ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अविद्याध्यारोपिताः? जरामरणादयस्तु न भवन्ति इति विशेषहेतुः वक्तव्यः। न भवन्ति इति अस्ति अनुमानम् — अविद्याध्यारोपितत्वात् जरामरणादिवत् इति? हेयत्वात्? उपादेयत्वाच्च इत्यादि। तत्र एवं सति? कर्तृत्वभोक्तृत्वलक्षणः संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति? न तेन ज्ञातुः किञ्चित् दुष्यति? यथा बालैः अध्यारोपितेन आकाशस्य तलमलिनत्वादिना।।एवं च सति? सर्वक्षेत्रेष्वपि सतः भगवतः क्षेत्रज्ञस्य ईश्वरस्य संसारित्वगन्धमात्रमपि नाशङ्क्यम्। न हि क्वचिदपि लोके अविद्याध्यस्तेन धर्मेण कस्यचित् उपकारः अपकारो वा दृष्टः।।यत्तु उक्तम् — न समः दृष्टान्तः इति? तत् असत्। कथम् अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितम्। तत् न व्यभिचरति। यत्तु ज्ञातरि व्यभिचरति इति मन्यसे? तस्यापि अनैकान्तिकत्वं दर्शितं जरादिभिः।।अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्? न अविद्यायाः तामसत्वात्। तामसो हि प्रत्ययः? आवरणात्मकत्वात् अविद्या विपरीतग्राहकः? संशयोपस्थापको वा? अग्रहणात्मको वा विवेकप्रकाशभावे तदभावात्? तामसे च आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः।।

अत्र आह — एवं तर्हि ज्ञातृधर्मः अविद्या। न करणे चक्षुषि तैमिरिकत्वादिदोषोपलब्धेः। यत्तु मन्यसे — ज्ञातृधर्मः अविद्या? तदेव च अविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् तत्र यदुक्तम् ईश्वर एव क्षेत्रज्ञः? न संसारी इत्येतत् अयुक्तमिति — तत् न यथा करणे चक्षुषि विपरीतग्राहकादिदोषस्य दर्शनात्। न विपरीतादिग्रहणं तन्निमित्तं वा तैमिरिकत्वादिदोषः ग्रहीतुः? चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः अदर्शनात् न ग्रहीतुर्धर्मः यथा तथा सर्वत्रैव अग्रहणविपरीतसंशयप्रत्ययास्तन्निमित्ताः करणस्यैव कस्यचित् भवितुमर्हन्ति? न ज्ञातुः क्षेत्रज्ञस्य। संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवत् न ज्ञातृधर्मत्वम् — संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वम् सर्वकरणवियोगे च कैवल्ये सर्ववादिभिः अविद्यादिदोषवत्त्वानभ्युपगमात्। आत्मनः यदि क्षेत्रज्ञस्य अग्न्युष्णवत् स्वः धर्मः? ततः न कदाचिदपि तेन वियोगः स्यात्। अविक्रियस्य च व्योमवत् सर्वगतस्य अमूर्तस्य आत्मनः केनचित् संयोगवियोगानुपपत्तेः? सिद्धं क्षेत्रज्ञस्य नित्यमेव ईश्वरत्वम् अनादित्वान्निर्गुणत्वात् (गीता 13।31) इत्यादीश्वरवचनाच्च।।ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत्? न सर्वैरभ्युपगतत्वात्। सर्वैर्हि आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति। कथम् अभ्युपगतः इति मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते। न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता। तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति? शास्त्रानर्थक्यं भवतु अविद्याविषये च अर्थवत्त्वम् — यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्राद्यर्थवत्त्वम्? न मुक्तावस्थायाम्? एवम्।।ननु आत्मनः बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम्। अतः हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वं स्यात्। अद्वैतिनां पुनः? द्वैतस्य अपरमार्थत्वात्? अविद्याकृतत्वात् बन्धावस्थायाश्च आत्मनः अपरमार्थत्वे निर्विषयत्वात्? शास्त्राद्यानर्थक्यम् इति चेत्? न आत्मनः अवस्थाभेदानुपपत्तेः। यदि तावत् आत्मनः बन्धमुक्तावस्थे? युगपत् स्याताम्? क्रमेण वा। युगपत् तावत् विरोधात् न संभवतः स्थितिगती इव एकस्मिन्। क्रमभावित्वे च? निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गः।,अन्यनिमित्तत्वे च स्वतः अभावात् अपरमार्थत्वप्रसङ्गः। तथा च सति अभ्युपगमहानिः। किञ्च? बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां बन्धावस्था पूर्वं प्रकल्प्या? अनादिमती अन्तवती च तच्च प्रमाणविरुद्धम्। तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैव अभ्युपगम्यते। न च अवस्थावतः अवस्थान्तरं गच्छतः नित्यत्वम् उपपादयितुं शक्यम्। अथ अनित्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदो न कल्प्यते? अतः द्वैतिनामपि शास्त्रानर्थक्यादिदोषः अपरिहार्य एव इति समानत्वात् न अद्वैतवादिना परिहर्तव्यः दोषः।।न च शास्त्रानर्थक्यम्? यथाप्रसिद्धाविद्वत्पुरुषविषयत्वात् शास्त्रस्य। अविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनम्? न विदुषाम् विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्वदर्शने सति? तयोः अहमिति आत्मदर्शनानुपपत्तेः। न हि अत्यन्तमूढः उन्मत्तादिरपि जलाग्न्योः छायाप्रकाशयोर्वा ऐकात्म्यं पश्यति किमुत विवेकी। तस्मात् न विधिप्रतिषेधशास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः भवति। न हि देवदत्त? त्वम् इदं कुरु इति कस्मिंश्चित् कर्मणि नियुक्ते? विष्णुमित्रः अहं नियुक्तः इति तत्रस्थः नियोगं श्रृण्वन्नपि प्रतिपद्यते। वियोगविषयविवेकाग्रहणात् तु उपपद्यते प्रतिपत्तिः तथा फलहेत्वोरपि।।ननु प्राकृतसंबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविषया — फलहेतुभ्याम् अन्यात्मविषयदर्शनेऽपि सति — इष्टफलहेतौ प्रवर्तितः अस्मि? अनिष्टफलहेतोश्च निवर्तितः अस्मीति यथा पितृपुत्रादीनाम् इतरेतरात्मान्यत्वदर्शने सत्यपि अन्योन्यनियोगप्रतिषेधार्थप्रतिपत्तिः। न व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्रागेव फलहेत्वोः आत्माभिमानस्य सिद्धत्वात्। प्रतिपन्ननियोगप्रतिषेधार्थो हि फलहेतुभ्याम् आत्मनः अन्यत्वं प्रतिपद्यते? न पूर्वम्। तस्मात् विधिप्रतिषेधशास्त्रम् अविद्वद्विषयम् इति सिद्धम्।।ननु स्वर्गकामो यजेत न कलञ्जं भक्षयेत् इत्यादौ आत्मव्यतिरेकदर्शिनाम् अप्रवृत्तौ? केवलदेहाद्यात्मदृष्टीनां च अतः कर्तुः अभावात् शास्त्रानर्थक्यमिति चेत्? न यथाप्रसिद्धित एव प्रवृत्तिनिवृत्त्युपपत्तेः। ईश्वरक्षेत्रज्ञैकत्वदर्शी ब्रह्मवित् तावत् न प्रवर्तते। तथा नैरात्म्यवाद्यपि नास्ति परलोकः इति न प्रवर्तते। यथाप्रसिद्धितस्तु विधिप्रतिषेधशास्त्रश्रवणान्यथानुपपत्त्या अनुमितात्मास्तित्वः आत्मविशेषानभिज्ञः कर्मफलसंजाततृष्णः श्रद्दधानतया च प्रवर्तते। इति सर्वेषां न प्रत्यक्षम्। अतः न शास्त्रानर्थक्यम्।।

विवेकिनाम् अप्रवृत्तिदर्शनात् तदनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्? न कस्यचिदेव विवेकोपपत्तेः। अनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्यात्? यथेदानीम्। न च विवेकिनम् अनुवर्तन्ते मूढाः? रागादिदोषतन्त्रत्वात् प्रवृत्तेः? अभिचरणादौ च प्रवृत्तिदर्शनात्? स्वाभाव्याच्च प्रवृत्तेः — स्वभावस्तु प्रवर्तते (गीता 5।14) इति हि उक्तम्।।

तस्मात् अविद्यामात्रं संसारः यथादृष्टविषयः एव। न क्षेत्रज्ञस्य केवलस्य अविद्या तत्कार्यं च। न च मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थम्। न हि ऊषरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकम्। तथा अविद्या क्षेत्रज्ञस्य न किञ्चित् कर्तुं शक्नोति। अतश्चेदमुक्तम् — क्षेत्रज्ञं चापि मां विद्धि (गीता 13।2) ? अज्ञानेनावृतं ज्ञानम् (गीता 5।15) इति च।।अथ किमिदं संसारिणामिव अहमेवम् ममैवेदम् इति पण्डितानामपि श्रृणु इदं तत् पाण्डित्यम्? यत् क्षेत्रे एव आत्मदर्शनम्। यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुः? ततः न भोगं कर्म वा आकाङ्क्षेयुः मम स्यात् इति। विक्रियैव भोगकर्मणी। अथ एवं सति? फलार्थित्वात् अविद्वान् प्रवर्तते। विदुषः पुनः अविक्रियात्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनुपपत्तौ कार्यकरणसंघातव्यापारोपरमे निवृत्तिः उपचर्यते।।इदं च अन्यत् पाण्डित्यं केषाञ्चित् अस्तु — क्षेत्रज्ञः ईश्वर एव। क्षेत्रं च अन्यत् क्षेत्रज्ञस्यैव विषयः। अहं तु संसारी सुखी दुःखी च। संसारोपरमश्च मम कर्तव्यः क्षेत्रक्षेत्रज्ञविज्ञानेन? ध्यानेन च ईश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्वरूपावस्थानेनेति। यश्च एवं बुध्यते? यश्च बोधयति? नासौ क्षेत्रज्ञः इति। एवं मन्वानः यः सः पण्डितापसदः? संसारमोक्षयोः शास्त्रस्य च अर्थवत्त्वं करोमीति आत्महा स्वयं मूढः अन्यांश्च व्यामोहयति शास्त्रार्थसंप्रदायरहितत्वात्? श्रुतहानिम् अश्रुतकल्पनां च कुर्वन्। तस्मात् असंप्रदायवित् सर्वशास्त्रविदपि मूर्खवदेव उपेक्षणीयः।।यत्तूक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति? क्षेत्रज्ञानां च ईश्वरैकत्वे संसारिणः अभावात् संसाराभावप्रसङ्गः इति?,एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोः वैलक्षण्याभ्युपगमात् इति। कथम् अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु पारमार्थिकं न दुष्यतीति। तथा च दृष्टान्तः दर्शितः — मरीच्यम्भसा ऊषरदेशो न पङ्कीक्रियते इति। संसारिणः अभावात् संसाराभावप्रसङ्गदोषोऽपि संसारसंसारिणोः अविद्याकल्पितत्वोपपत्त्या प्रत्युक्तः।।ननु अविद्यावत्त्वमेव क्षेत्रज्ञस्य संसारित्वदोषः। तत्कृतं च सुखित्वदुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्? न ज्ञेयस्य क्षेत्रधर्मत्वात्? ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः। यावत् किञ्चित् क्षेत्रज्ञस्य दोषजातम् अविद्यमानम् आसञ्जयसि? तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वमेव? न क्षेत्रज्ञधर्मत्वम्। न च तेन क्षेत्रज्ञः दुष्यति? ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः। यदि हि संसर्गः स्यात्? ज्ञेयत्वमेव नोपपद्येत। यदि आत्मनः धर्मः अविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते? कथं वा क्षेत्रज्ञधर्मः। ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञः इति अवधारिते? अविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं क्षेत्रज्ञधर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते अविद्यामात्रावष्टम्भात् केवलम्।।अत्र आह — सा अविद्या कस्य इति। यस्य दृश्यते तस्य एव। कस्य दृश्यते इति। अत्र उच्यते — अविद्या कस्य दृश्यते इति प्रश्नः निरर्थकः। कथम् दृश्यते चेत् अविद्या तद्वन्तमपि पश्यसि। न च तद्वति उपलभ्यमाने सा कस्य इति प्रश्नो युक्तः। न हि गोमति उपलभ्यमाने गावः कस्य इति प्रश्नः अर्थवान् भवति। ननु विषमो दृष्टान्तः। गवां तद्वतश्च प्रत्यक्षत्वात् तत्संबन्धोऽपि प्रत्यक्ष प्रश्नो निरर्थकः। न तथा अविद्या तद्वांश्च प्रत्यक्षौ? यतः प्रश्नः निरर्थकः स्यात्। अप्रत्यक्षेण अविद्यावता अविद्यासंबन्धे ज्ञाते? किं तव स्यात् अविद्यायाः अनर्थहेतुत्वात् परिहर्तव्या स्यात्। यस्य अविद्या? सः तां परिहरिष्यति। ननु ममैव अविद्या। जानासि तर्हि अविद्यां तद्वन्तं च आत्मानम्। जानामि? न तु प्रत्यक्षेण। अनुमानेन चेत् जानासि? कथं संबन्धग्रहणम् न हि तव ज्ञातुः ज्ञेयभूतया अविद्यया तत्काले संबन्धः ग्रहीतुं शक्यते? अविद्याया विषयत्वेनैव ज्ञातुः उपयुक्तत्वात्। न च ज्ञातुः अविद्यायाश्च संबन्धस्य यः ग्रहीता? ज्ञानं च अन्यत् तद्विषयं संभवति अनवस्थाप्राप्तेः। यदि ज्ञात्रापि ज्ञेयसंबन्धो ज्ञायते? अन्यः ज्ञाता कल्प्यः स्यात्? तस्यापि अन्यः? तस्यापि अन्यः इति अनवस्था अपरिहार्या। यदि पुनः अविद्या ज्ञेया? अन्यद्वा ज्ञेयं ज्ञेयमेव। तथा ज्ञातापि ज्ञातैव? न ज्ञेयं भवति। यदा च एवम्? अविद्यादुःखित्वाद्यैः न ज्ञातुः क्षेत्रज्ञस्य किञ्चित् दुष्यति।।

ननु अयमेव दोषः? यत् दोषवत्क्षेत्रविज्ञातृत्वम् न च विज्ञानस्वरूपस्यैव अविक्रियस्य विज्ञातृत्वोपचारात् यथा उष्णतामात्रेण अग्नेः तप्तिक्रियोपचारः? तद्वत्। यथा अत्र भगवता क्रियाकारकफलात्मत्वाभावः आत्मनि स्वत एव दर्शितः — अविद्याध्यारोपितैः एव क्रियाकारकादिः आत्मनि उपचर्यते तथा तत्र तत्र य एनं वेत्ति हन्तारम् (गीता 2।19) प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः (गीता 3।27) नादत्ते कस्यचित्पापम् (गीता 5।15) इत्यादिप्रकरणेषु दर्शितः। तथैव च व्याख्यातम् अस्माभिः। उत्तरेषु च प्रकरणेषु दर्शयिष्यामः।।

हन्त तर्हि आत्मनि क्रियाकारकफलात्मतायाः स्वतः अभावे? अविद्यया च अध्यारोपितत्वे? कर्माणि अविद्वत्कर्तव्यान्येव? न विदुषाम् इति प्राप्तम्। सत्यम् एवं प्राप्तम्? एतदेव च न हि देहभृता शक्यम् (गीता 18।11) इत्यत्र दर्शयिष्यामः। सर्वशास्त्रार्थोपसंहारप्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा (गीता 18।50) इत्यत्र विशेषतः दर्शयिष्यामः। अलम् इह बहुप्रपञ्चनेन? इति उपसंह्रियते।।

इदं शरीरम् (गीता13।1) इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकः अयम् उपन्यस्यते तत्क्षेत्रं यच्च (गीता 13।3) इत्यादि? व्याचिख्यासितस्य हि अर्थस्य संग्रहोपन्यासः न्याय्यः इति –,

तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्।

स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु।।13.4।।

Hindi Translation By Swami Tejomayananda

।।13.4।। इसलिये, वह क्षेत्र जो है और जैसा है तथा जिन विकारों वाला है, और जिस (कारण) से जो (कार्य) हुआ है तथा वह (क्षेत्रज्ञ) भी जो है और जिस प्रभाव वाला है, वह संक्षेप में मुझसे सुनो।।
 Hindi Translation By Swami Ramsukhdas

।।13.4।।वह क्षेत्र जो है, जैसा है, जिन विकारोंवाला है और जिससे जो पैदा हुआ है; तथा वह क्षेत्रज्ञ भी जो है और जिस प्रभाववाला है, वह सब संक्षेपमें मेरेसे सुन।Sanskrit Commentary By Sri Shankaracharya

।।13.4।। –,यत् निर्दिष्टम् इदं शरीरम् इति तत् तच्छब्देन परामृशति। यच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः धर्मैः। शब्दः समुच्चयार्थः। यद्विकारि यः विकारः यस्य तत् यद्विकारि? यतः यस्मात्  यत्? कार्यम् उत्पद्यते इति वाक्यशेषः। स च यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्च। तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु? श्रुत्वा अवधारय इत्यर्थः।।तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररोचनार्थम् –,English Translation By Swami Gambirananda

13.4 Hear from Me in brief about (all) that as to what that field is and how it is; what its changes are, and from what cause arises what effect; and who He is, and what His powers are.

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्िचतैः।।13.5।।

Hindi Translation By Swami Tejomayananda

।।13.5।। (क्षेत्र-क्षेत्रज्ञ के विषय में) ऋषियों द्वारा विभिन्न और विविध छन्दों में बहुत प्रकार से गाया गया है, तथा सम्यक् प्रकार से निश्चित किये हुये युक्तियुक्त ब्रह्मसूत्र के पदों द्वारा (अर्थात् ब्रह्म के सूचक शब्दों द्वारा) भी (वैसे ही कहा गया है)।।
 Hindi Translation By Swami Ramsukhdas

।।13.5।।(यह क्षेत्रक्षेत्रज्ञका तत्त्व) ऋषियोंके द्वारा बहुत विस्तारसे कहा गया है तथा वेदोंकी ऋचाओं-द्वारा बहुत प्रकारसे कहा गया है और युक्तियुक्त एवं निश्चित किये हुए ब्रह्मसूत्रके पदोंद्वारा भी कहा गया है।Sanskrit Commentary By Sri Shankaracharya

।।13.5।। –,ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम्। छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतम्। किञ्च? ब्रह्मसूत्रपदैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च क्षेत्रक्षेत्रज्ञयाथात्म्यम् गीतम् इति अनुवर्तते। आत्मेत्येवोपासीत (बृह0 उ0 1।4।7) इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते? हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः।।स्तुत्या अभिमुखीभूताय अर्जुनाय आह भगवान् –,English Translation By Swami Gambirananda

13.5 It has been sung of in various ways by the Rsis, separately by the different kinds [The different branches of Vedic texts.] of Vedic texts, and also by the rational and convicing sentences themselves which are indicatvie of and lead of Brahman.

Gita Chapter 7 to 12 Bhakti

Gita Chapter 13 Gyan Bhakti Samanvay

https://archive.org/details/Gita-talksInBengali/mode/2up

https://archive.org/details/BengaliIntroductionToGita

Date 17 May 2022

#SwamiSamarpanananda#স্বামীসমর্পণানন্দ#সমর্পণ

গীতা | Gita 63 (Bengali) | God is the indwelling Spirit in all | XIII.1-2| Swami Samarpanananda

16,896 viewsStreamed live on Jun 20, 2021641DISLIKESHARECLIPSAVE

Date 16 May 2022

গীতা | Gita 62 (Bengali) | Bhakti Yoga – Devotees dear to God | XII.12-20 | Swami Samarpanananda

Streamed live on Jun 13, 2021

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।12.12।।

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।12.13।।

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः।।12.14।।

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः।।12.15।।

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।12.16।।

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।

शुभाशुभपरित्यागी भक्ितमान्यः स मे प्रियः।।12.17।।

समः शत्रौ च मित्रे च तथा मानापमानयोः।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।12.18।।

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।

अनिकेतः स्थिरमतिर्भक्ितमान्मे प्रियो नरः।।12.19।।

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः।।12.20।।

Time 49 min

Clean . Outside . Inside. Arrange Table, Food, Clothes . Paper Discard

Sri Sri Maa . Broom

Keep

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।12.16।।

Nirbhay

Hindi Translation By Swami Tejomayananda

।।12.16।। जो अपेक्षारहित, शुद्ध, दक्ष, उदासीन, व्यथारहित और सर्वकर्मों का संन्यास करने वाला मेरा भक्त है, वह मुझे प्रिय है।।
 Hindi Translation By Swami Ramsukhdas

।।12.16।।जो आकाङ्क्षासे रहित, बाहर-भीतरसे पवित्र, दक्ष, उदासीन, व्यथासे रहित और सभी आरम्भोंका अर्थात् नये-नये कर्मोंके आरम्भका सर्वथा त्यागी है, वह मेरा भक्त मुझे प्रिय है।Sanskrit Commentary By Sri Shankaracharya

।।12.16।। –,देहेन्द्रियविषयसंबन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः। शुचिः बाह्येन आभ्यन्तरेण च शौचेन संपन्नः। दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः। उदासीनः न कस्यचित् मित्रादेः पक्षं भजते यः? सः उदासीनः यतिः। गतव्यथः गतभयः। सर्वारम्भपरित्यागी आरभ्यन्त इति आरम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः? तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः।।किञ्च –,English Translation By Swami Gambirananda

12.16 He who has no desires, who is pure, who is dextrous, who is impartial, who is free from fear, who has renounced every undertaking-he who is (such) a devotee of Mine is dear to Me.

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।

शुभाशुभपरित्यागी भक्ितमान्यः स मे प्रियः।।12.17।।

Hindi Translation By Swami Tejomayananda

।।12.17।। जो न हर्षित होता है और न द्वेष करता है; न शोक करता है और न आकांक्षा; तथा जो शुभ और अशुभ को त्याग देता है, वह भक्तिमान् पुरुष मुझे प्रिय है।।
 Hindi Translation By Swami Ramsukhdas

।।12.17।।जो न कभी हर्षित होता है, न द्वेष करता है, न शोक करता है, न कामना करता है और जो शुभ-अशुभ कर्मोंमें राग-द्वेषका त्यागी है, वह भक्तिमान् मनुष्य मुझे प्रिय है।Sanskrit Commentary By Sri Shankaracharya

।।12.17।। –,यः न हृष्यति इष्टप्राप्तौ? न द्वेष्टि अनिष्टप्राप्तौ? न शोचति प्रियवियोगे? न च अप्राप्तं काङ्क्षति? शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्य इति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः।।English Translation By Swami Gambirananda

12.17 He who does not rejoice, does not fret, does not lament, does not hanker; who gives up good and bad, who is filled with devotion-he is dear to Me.

समः शत्रौ च मित्रे च तथा मानापमानयोः।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।12.18।।

Hindi Translation By Swami Tejomayananda

।।12.18।। जो पुरुष शत्रु और मित्र में तथा मान और अपमान में सम है; जो शीत-उष्ण व सुखदु:खादिक द्वन्द्वों में सम है और आसक्ति रहित है।।
 Hindi Translation By Swami Ramsukhdas

।।12.18।।जो शत्रु और मित्रमें तथा मान-अपमानमें सम है और शीत-उष्ण (अनुकूलता-प्रतिकूलता) तथा सुख-दुःखमें सम है एवं आसक्तिसे रहित है, और जो निन्दास्तुतिको समान समझनेवाला, मननशील, जिस-किसी प्रकारसे भी (शरीरका निर्वाह होनेमें) संतुष्ट, रहनेके स्थान तथा शरीरमें ममता-आसक्तिसे रहित और स्थिर बुद्धिवाला है, वह भक्तिमान् मनुष्य मुझे प्रिय है।Sanskrit Commentary By Sri Shankaracharya

।।12.18।। –,समः शत्रौ च मित्रे च? तथा मानापमानयोः पूजापरिभवयोः? शीतोष्णसुखदुःखेषु समः? सर्वत्र च सङ्गविवर्जितः।।किञ्च –,English Translation By Swami Gambirananda

12.18 He who is the same towards friend and foe, and so also in honour and dishonour; who is the same under cold, heat, happiness and sorrow, who is free from attachment to everything.

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।

अनिकेतः स्थिरमतिर्भक्ितमान्मे प्रियो नरः।।12.19।।

Hindi Translation By Swami Tejomayananda

।।12.19।। जिसको निन्दा और स्तुति दोनों ही तुल्य है, जो मौनी है, जो किसी अल्प वस्तु से भी सन्तुष्ट है, जो अनिकेत है, वह स्थिर बुद्धि का भक्तिमान् पुरुष मुझे प्रिय है।।
 Hindi Translation By Swami Ramsukhdas

।।12.19।।जो शत्रु और मित्रमें तथा मान-अपमानमें सम है और शीतउष्ण (अनुकूलता-प्रतिकूलता) तथा सुख-दुःखमें सम है एवं आसक्तिसे रहित है, और जो निन्दा-स्तुतिको समान समझनेवाला, मननशील, जिस-किसी प्रकारसे भी (शरीरका निर्वाह होनेमें) संतुष्ट, रहनेके स्थान तथा शरीरमें ममता-आसक्तिसे रहित और स्थिर बुद्धिवाला है, वह भक्तिमान् मनुष्य मुझे प्रिय है।Sanskrit Commentary By Sri Shankaracharya

।।12.19।। — तुल्यनिन्दास्तुतिः निन्दा च स्तुतिश्च निन्दास्तुती ते तुल्ये यस्य सः तुल्यनिन्दास्तुतिः। मौनी मौनवान् संयतवाक्। संतुष्टः येन केनचित् शरीरस्थितिहेतुमात्रेण तथा च उक्तम् — येन केनचिदाच्छन्नो येन केनचिदाशितः। यत्र क्वचनशायी स्यात्तं देवा ब्राह्मणं विदुः (महा0 शान्ति0 245।12) इति। किञ्च? अनिकेतः निकेतः आश्रयः निवासः नियतः न विद्यते यस्य सः अनिकेतः? अनागारे इत्यादिस्मृत्यन्तरात्। स्थिरमतिः स्थिरा परमार्थविषया यस्य मतिः सः स्थिरमतिः। भक्ितमान् मे प्रियः नरः।।

अद्वेष्टा सर्वभूतानाम् (गीता 12।13) इत्यादिना अक्षरोपासकानां निवृत्तसर्वैषणानां संन्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तम् उपसंह्रियते –,

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः।।12.20।।

Hindi Translation By Swami Tejomayananda

।।12.20।। जो भक्त श्रद्धावान् तथा मुझे ही परम लक्ष्य समझने वाले हैं और इस यथोक्त धर्ममय अमृत का अर्थात् धर्ममय जीवन का पालन करते हैं, वे मुझे अतिशय प्रिय हैं।।Hindi Translation By Swami Ramsukhdas

।।12.20।।जो मेरेमें श्रद्धा रखनेवाले और मेरे परायण हुए भक्त पहले कहे हुए इस धर्ममय अमृतका अच्छी तरहसे सेवन करते हैं, वे मुझे अत्यन्त प्रिय हैं।Sanskrit Commentary By Sri Shankaracharya

।।12.20।। –,ये तु संन्यासिनः धर्म्यामृतं धर्मादनपेतं धर्म्यं च तत् अमृतं च तत्? अमृतत्वहेतुत्वात्? इदं यथोक्तम्? अद्वेष्टा सर्वभूतानाम् इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तः अहं अक्षरात्मा परमः निरतिशया गतिः येषां ते मत्परमाः? मद्भक्ताः च उत्तमां परमार्थज्ञानलक्षणां भक्तिमाश्रिताः? ते अतीव मे प्रियाः। प्रियो हि ज्ञानिनोऽत्यर्थम् इति यत् सूचितं तत् व्याख्याय इह उपसंहृतम् भक्तास्तेऽतीव मे प्रियाः इति। यस्मात् धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति? तस्मात् इदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये

द्वादशोऽध्यायः।।

English Translation By Swami Gambirananda

12.20 But [Tu (but) is used to distinguish those who have attained the highest Goal from the aspirants.-Tr.] those devotees who accept Me as the supreme Goal, and with faith seek for this ambrosia [M.S.’s reading is dharmamrtam-nectar in the form of virtue. Virtue is called nectar because it leads to Immortality, or because it is sweet like nectar.] which is indistinguishable from the virtues as stated above, they are very dear to Me.

Three


After death Mukti Desired

Baikunt Dham

SAALOKya saamipya Saaropya

Bhakti Types

From 18.13 to 18.20 Apply in life

Having no Feeling of other All me.

Date 15 May 2022

গীতা 101 | Gita (Bengali) | The End | XVIII.64-78 | Swami Samarpanananda